तुरीया

इयं सरलसंस्कृतपरीक्षाणां चतुर्थः स्तरः । अस्यां परीक्षायां द्वे पत्रिके भवतः ।

पत्रिका १
पठ्यपुस्तकम् – संस्कृतभाषादीपिका IV (संस्कृते एव)
मूल्यम् – २५.०० रू ।

पत्रिका २
पठ्यपुस्तकम् – अनुवादप्रदीपः II (कन्नडावृत्तिः)
मूल्यम् – १५.०० रू

प्रथमपत्रिकायाः पठ्यपुस्तके विविधेभ्यः प्रसिद्धेभ्यः संस्कृतकाव्येभ्यः चिताः भागाः सन्ति । गद्यकाव्येभ्यः, पद्यकाव्येभ्यः, नाटकेभ्यः च भागाः प्रदत्ताः । व्याकरणभागे समासाः पाठ्यन्ते ।

द्वितीयपठ्यपुस्तकः अनुवादाभ्यासार्थं निर्मितः । अनेन छात्रेषु संस्कृतभाषायाः कन्नड/आङ्ग्लभाषायाम्, ततश्च संस्कृतभाषायाम् अनुवादस्य कौशलं वर्धते । अत्र दत्तेषु अभ्यासेषु विविधाः लकाराः, भावेप्रयोगः, सतिसप्तमी, निर्धारणषष्ठी/सप्तमी इत्यादयः अंशाः पाठिताः । प्रबन्धलेखनस्य अपि अभ्यासाः अत्र सन्ति ।

परीक्षाशुल्कः – ३०.००
पत्रिका १ परीक्षावधिः – ३.०० घण्टाः (प्रातः १०.०० तः १.००)
अङ्काः – १०० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)
पत्रिका २ परीक्षावधिः – १.३० घण्टाः (मध्याह्ने २.३० तः ४.००)
अङ्काः – ५० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं १८ अङ्काः प्राप्तव्याः)

तुरीयापरीक्षायां सर्वाणि उत्तराणि संस्कृते एव भवेयुः (अनुवादभागं विहाय) ।

 तुरीयापरीक्षायाः आवेदनापत्रम् अत्र द्रष्टुं शक्यम् 

Comments are closed.