योग्यतापत्राणि सम्माननानि च

परीक्षासु उत्तीर्णेभ्यः सर्वेभ्यः छात्रेभ्यः सभया योग्यतापत्राणि वितीर्यन्ते । परीक्षासु अधिकान् अङ्कान् प्राप्य उत्तमश्रेण्याम् उत्तीर्णेभ्यः प्रतिभावद्भ्यः छात्रेभ्यः परमपूज्यानां श्रीमज्जगद्गुरूणाम् आशीरनुग्रहसहितं शृङ्गेरीश्रीशारदाङ्कितानि रजतपदकानि प्रदीयन्ते । अधोनिर्दिष्टाः छात्राः पदकानि प्राप्तुम् अर्हाः –

प्रथमापरीक्षायाम् अत्युत्तमाः दशच्छात्राः ।

द्वितीयापरीक्षायाम् अत्युत्तमाः दशच्छात्राः ।

तृतीयापरीक्षायाम् अत्युत्तमाः अष्टच्छात्राः ।

तुरीयापरीक्षायाम् अत्युत्तमाः पञ्चच्छात्राः ।

प्रवेशपरीक्षायाम् अत्युत्तमाः त्रयश्छात्राः ।

योग्यतापत्रे नष्टे सति पुनः प्राप्तुं ये इच्छन्ति ते २० रूप्यकाणां शुल्कसहितं नाम, क्रमसंख्या, परीक्षानाम, परीक्षादिनाङ्कः, केन्द्रम् इत्येतान् अंशान् उल्लिख्य प्रार्थनापत्रं सभां प्रति प्रेषयेयुः ।

Comments are closed.