प्रवेशार्हता नियमाः च

प्रथमा, द्वितीया, तृतीया, तुरीया, प्रवेशः इत्येताः पञ्च परीक्षाः प्रतिवर्षं द्विवारम् आयोज्यन्ते । प्रायेण जनवरी-आगस्ट्‌मासयोः अन्तिमे भानुवासरे इमाः परीक्षाः भवन्ति ।

प्रवेशार्हता

सभायाः परीक्षासु वयसः निर्बन्धः नास्ति । आसक्तः कोऽपि परीक्षाः दातुम् अर्हति ।
किञ्च, कस्यामपि परीक्षायां साक्षात् प्रवेष्टुम् अनुमतिः अस्ति । (उत्तरोत्तरपरीक्षासु पूर्वपूर्वपरीक्षोत्तीर्णता भवेद् इति नियमः नास्ति । तथापि, क्रमशः अध्ययनेन संस्कृतभाषायाम् उत्तमं ज्ञानं प्राप्तुं शक्यते इति सभायाः आशयः) ।

एस्.एस्.एल्.सी (दशमकक्ष्या)परीक्षायां  संस्कृतं प्रथमभाषात्वेन स्वीकृत्य उत्तीर्णाः प्रथमा-द्वितीयापरीक्षे दातुं न अर्हन्ति । ते तृतीयातः आरभ्य कामपि परीक्षां दातुम् अर्हाः ।

नियमाः

परीक्षाशुल्कस्य, आवेदनपत्राणां च प्राप्त्युत्तरं तस्य प्रत्यर्पणम्, अग्रिमपरीक्षार्थम् आरक्षणम्, अन्यस्मै छात्राय संक्रमणं वा न करिष्यते ।

परीक्षाकेन्द्रं परिवर्तियितुं ये इच्छन्ति, ते परीक्षातः एकस्मात् मासात् पूर्वं सभायाः कार्यदर्शिनं पत्रद्वारा सूचयेयुः ।

प्रथमापरीक्षायां छात्राः २० अङ्कानाम् उत्तराणि संस्कृते एव लिखेयुः । अन्यानि उत्तराणि संस्कृते, कन्नडे, आङ्ग्लभाषायां वा लेखितुम् अर्हन्ति ।

द्वितीयापरीक्षायां ४० अङ्कानाम् उत्तराणि संस्कृतभाषायामेव भवेयुः । अन्यानि उत्तराणि संस्कृते, कन्नडे, आङ्ग्लभाषायां वा भवितुम् अर्हन्ति ।

तृतीयापरीक्षायां ६० अङ्कानाम् उत्तराणि संस्कृतभाषायामेव भवेयुः ।

तुरीया-प्रवेशपरीक्षयोः उत्तराणि पूर्णतया संस्कृतभाषायामेव भवेयुः (अनुवादभागं विहाय) ।

 

केन्द्रप्रमुखाणां/शिक्षकाणां कृते नियमा:

१. प्रवेशपत्राणि, उत्तरपत्रिकाः, इतरपरीक्षासामग्री च परीक्षाकेन्द्रं प्रति मुद्रितप्रच्छदे सभया प्रेष्यन्ते । परीक्षाकेन्द्रे प्रच्छदम् उद्घाट्य सामग्रीः विभजनीयाः । प्रश्नपत्रिकाः समुद्राः एव पृथक् सुरक्षितरूपेण स्थापनीयाः । परीक्षादिने परीक्षायाः १५ निमेषेभ्यः प्राक् एव प्रधानवीक्षकेण प्रश्नपत्रिकाः साक्षिणां सम्मुखम् उद्घाटनीयाः ।

२. परीक्षासामग्र्यां यदि कापि न्यूनता दृश्येत तर्हि सपदि सभायाः कार्यालयः सूचनीयः ।

३. केनापि कारणेन परीक्षायाः दिनाङ्के समये वा परिवर्तनं न करणीयम् ।

४. परीक्षाव्यवस्थापकाः परीक्षादिने परीक्षाः संद्रष्टुं तत्तत्स्थलस्य कञ्चन माननीयम् आहूय तस्य अभिप्रायं लिखितरूपेण प्राप्य सभां प्रति प्रेषयेत् ।

५. परीक्षार्थिभिः उत्तरपत्रिकासु क्रमाङ्कः स्पष्टं लिखितः स्यात् – वीक्षकं एतम् अंशं परीक्ष्यैव उत्तरपत्रिकायां स्वहस्ताङ्कनं कुर्यात् । उत्तरपत्रिकासु केन्द्रस्य नाम/मुद्रा वा न स्थापनीया ।

६. उपस्थितिपत्रे सर्वे अंशाः पूरणीयाः । अनुपस्थितानां छात्राणां नाम, क्रमाङ्कं च स्पष्टं विलिख्य प्रेषणीयम् ।

७. उत्तरपत्रिकाः क्रमाङ्कानुगुणं संस्थाप्य तत्तत्परीक्षाणाम् उपस्थितिपत्रम् उत्तरपत्रिकागुच्छस्य उपरि सूत्रेण बद्ध्वा प्रेषणीयम् ।

८. त्रिंशतः छात्राणां कृते एकः वीक्षकः भवितुम् अर्हति । अधोनिर्दिष्टरूपेण सहायकवीक्षकः भवितुम् अर्हति ।

अ) २५० छात्राणां कृते – एकः सहायकौ

आ) २५०-५०० छात्राणाम् – द्वौ सहायकौ

इ) ५००-१०० छात्राणाम् – चत्वारः सहायकाः

९. यत्र त्रिंशतः अधिकाः छात्राः सन्ति, तत्र प्रतिशतं छात्राणां कृते एकः सेवकः भवितुम् अर्हति । यदि छात्राणां सङ्ख्या त्रिंशतः न्यूना, तर्हि सहायकवीक्षको वा सेवको वा भवितुं नार्हति ।

१०. परीक्षाणां समाप्त्यनन्तरम् उत्तरपत्रिकाः परीक्षानुगुणं क्रमशः वर्गीकृत्य, तत्तत्परीक्षाणाम् उपस्थितिपत्रं संयोज्य, सुरक्षितरूपेण आच्छाद्य रिजिस्टर्ड् पार्सल्/कोरियर् द्वारा परेद्युः एव प्रेषणीयाः, साक्षात् सभायाः कार्यालयं प्रति प्रापणीया वा । केनापि कारणेन उत्तरपत्रिकाणां प्रापणे विलम्बो न भवेत् । पत्रालयस्य स्वीकृतिपत्रं, वीक्षकाणां सम्भावनाधनस्य पत्रं च पृथक् प्रेषणीयम् ।

११. परीक्षाकार्याणां कृते सम्भावनाधनम्

अ) प्रधानवीक्षकस्य कृते – रू. ३५ (एकस्य सत्रस्य), रू. ५० (द्वयोः सत्रयोः)

आ) वीक्षकाणाम्/सहायकवीक्षकाणाम् – रू. २५ (एकस्य सत्रस्य), रू. ३५ (द्वयोः सत्रयोः)

इ) सेवकानाम् – रू.१५ (एकस्य, द्वयोः सत्रयोः वा)

 

जनवरीमासस्य परीक्षाणां कृते आवेदनापत्राणि, शुल्कं च प्रेषयितुं पूर्वतनडिसेम्बर्‌मासस्य १० अन्तिमदिनाङ्कः । आगस्ट्‌मासस्य परीक्षाणां कृते पूर्वतनजुलैमासस्य १० अन्तिमदिनाङ्कः ।

अन्तिमदिनानन्तरं दशदिनानि यावत् एकरूप्यकस्य विशेषशुल्केन सह आवेदनापत्राणि स्वीक्रियन्ते । ततः परं प्राप्तानि आवेदनापत्राणि न स्वीक्रियन्ते ।

परीक्षाशुल्कस्य प्रतिशतं ३० भागम् उपाध्यायाः स्वीकृत्य अवशिष्टं वित्तकोशस्य ड्राफ़्ट्‌द्वारा अधोनिर्दिष्टं सङ्केतं प्रति प्रेषयेयुः – ‘कार्यदर्शी, श्रीसुरसरस्वतीसभा, शृङ्गेरी, श्री अभिनवमन्दिरम्, श्रीशङ्करमठस्य परिसरः, शङ्करपुरम्, बेङ्गलूरु – ५६०००४’ ।

परीक्षाणां शुल्कः, पुस्तकानां मूल्यं च काले काले परिवर्तितं भवेत् । अतः उपाध्यायाः सूक्तं मूल्यं विज्ञाय छात्रेभ्यः धनं सङ्गृह्णीयुः।

Comments are closed.