पुनर्विमर्शः

प्रायेण परीक्षानन्तरं ४५ दिनेषु फलितांशः उद्घोष्यते । ततः दशदिनाभ्यन्तरे योग्यतापत्राणि प्रेषयिष्यन्ते ।

फलितांशेन अतृप्ताः छात्राः पुनर्विमर्शार्थं २० रूप्यकाणां शुल्केन सह प्रार्थनापत्रं सभायाः कार्यदर्शिभ्यः फलितांशोद्घोषणानन्तरं दशदिनाभ्यन्तरे समर्पयेयुः । प्रार्थनापत्रे अभ्यर्थिनः नाम, क्रमसंख्या, परीक्षाकेन्द्रम्, परीक्षायाः नाम, परीक्षादिनाङ्कः, हस्ताङ्कनं च भवेत् । विलम्बेन प्राप्तानि प्रार्थनापत्राणि न परिगण्यन्ते ।

Comments are closed.