आवेदनापत्रसमर्पणम्

  1. प्रत्येकं परीक्षायाः आवेदनापत्रं भिन्नम् अस्ति । निर्दिष्टानि आवेदनापत्राणि एव पूरणीयानि । आवेदनापत्रे सर्वे अंशाः पूरणीयाः ।
  2. अभ्यर्थिनः नाम देवनागरीलिप्यां कन्नडलिप्यां वा स्पष्टं लेखनीयम् । आङ्ग्लभाषालेखने उच्चारणे संशयः स्यात्, येन योग्यतापत्रे दोषाः भवेयुः । अतः आङ्ग्लभाषा न उपयोक्तव्या ।
  3. उत्तराणि कया भाषया लिख्यन्ते इति अवश्यं सूचनीयम् ।
  4. आवेदनापत्राणि निःशुल्कं दीयन्ते । अवश्यकतानुगुणम् उपयोगः करणीयः ।
  5. आवेदनापत्राणि सभया मानितस्य कस्यचित् अध्ययनकेन्द्रस्य द्वारा एव प्रेषणीयानि । वैयक्तिकरूपेण समर्पितानि आवेदनापत्राणि न स्वीक्रियन्ते ।
  6. परीक्षाशुल्कस्य, आवेदनपत्राणां च प्राप्त्यनन्तरं तस्य प्रत्यर्पणम्, अग्रिमपरीक्षार्थम् आरक्षणम्, अन्यस्मै छात्राय संक्रमणं वा न करिष्यते ।
  7. परीक्षाकेन्द्रं परिवर्तियितुं ये इच्छन्ति, ते परीक्षातः एकस्मात् मासात् पूर्वं सभायाः कार्यदर्शिनं पत्रद्वारा सूचयेयुः ।
  8. जनवरीमासस्य परीक्षाणां कृते आवेदनापत्राणि, शुल्कं च प्रेषयितुं पूर्वतनडिसेम्बर्‌मासस्य १० अन्तिमदिनाङ्कः । आगस्ट्‌मासस्य परीक्षाणां कृते पूर्वतनजुलैमासस्य १० अन्तिमदिनाङ्कः ।
  9. अन्तिमदिनानन्तरं दशदिनानि यावत् एकरूप्यकस्य विशेषशुल्केन सह आवेदनापत्राणि स्वीक्रियन्ते । ततः परं प्राप्तानि आवेदनापत्राणि न स्वीक्रियन्ते ।
  10. परीक्षाशुल्कस्य प्रतिशतं ३० भागम् उपाध्यायाः स्वीकृत्य अवशिष्टं वित्तकोशस्य ड्राफ़्ट्‌द्वारा अधोदत्तं सङ्केतं प्रति प्रेषयेयुः – ‘कार्यदर्शी, श्रीसुरसरस्वतीसभा, शृङ्गेरी, श्री अभिनवमन्दिरम्, श्रीशङ्करमठस्य परिसरः, शङ्करपुरम्, बेङ्गलूरु – ५६०००४’ ।

Comments are closed.