नूतनकेन्द्रारम्भः कथम्?

सर्वाभ्यः परीक्षाभ्यः आहत्य २० अभ्यर्थिनः सन्ति चेत् केन्द्रस्य मान्यता दीयते । एकस्मिन्नेव पत्तने ३ किलोमीटर्-तः अधिकम् अन्तरम् अस्ति चेदेव अपरस्य केन्द्रस्य कृते मान्यता दीयते ।

नूतनकेन्द्रम् आरब्धुं ये इच्छन्ति, ते परीक्षार्थम् आवेदनापत्रसमर्पणदिनाङ्काद् मासात् पूर्वमेव सभां प्रति प्रार्थनापत्रं समर्प्य मान्यतां प्राप्नुयुः ।

परीक्षाव्यवस्था

छात्रेभ्यः उत्तरपत्रिकाः सभया प्रदीयन्ते । लेखनी तु छात्रैः एव आनेतव्या ।

परीक्षाः शालासु, अथ वा सूक्तव्यवस्थायुतेषु सार्वजनिकस्थलेषु केन्द्रेण आयोजनीयाः । निर्दिष्टसमयानुगुणम् एव परीक्षाः चालनीयाः ।

वि.सू – उपाध्यायाः परीक्षाशुल्कम् अतिरिच्य प्रवेशधनत्वेन बोधनाशुल्कत्वेन वा प्रत्येकस्मात् छात्रात् किञ्चित् धनं स्वीकर्तुम् अर्हन्ति । एतद्धनं सभायै दातव्यं नास्ति ।

Comments are closed.