द्वितीया

इयं सरलसंस्कृतपरीक्षाणां द्वितीयः स्तरः

 द्वितीयापरीक्षायाः इ- अध्ययनार्थम् अत्र पश्यन्तु  – सम्पूर्णः पाठ्यक्रमः ध्वनि-चित्र-चलच्चित्रैः, सोत्तरैः अभ्यासैः, इतरैश्च विशिष्टैः अध्ययनसाधनैः सह अत्र लभ्यते ।

पठ्यपुस्तकम् – संस्कृतभाषादीपिका II (आङ्ग्लावृत्तिः, कन्नडावृत्तिः च लभ्यते)
मूल्यम् – २०.०० रू ।

अस्मिन् पठ्यपुस्तके अधिकानां नामरूपाणां धातुरूपाणां च परिचयः अस्ति । पठ्यपुस्तकस्य गद्यभागे सरलाः लघवः च पाठाः सन्ति । पद्यभागे सुभाषितानि रामायणस्य कश्चन भागश्च प्रदत्तः । व्याकरणभागे स्वरसन्धीनाम् (प्रथमापरीक्षायां येऽधीताः, तद्भिन्नानाम्) , अव्ययानाम्, उपसर्गाणां, लकाराणां च विवरणम् अस्ति ।

परीक्षाशुल्कः – २०.०० रू
परीक्षावधिः – २.३० घण्टाः (प्रातः १०.०० तः १२.३०)
अङ्काः – १०० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)

द्वितीयापरीक्षायां प्रायः ७५ अङ्कानाम् उत्तराणि संस्कृतभाषायामेव भवेयुः । अन्यानि उत्तराणि संस्कृते, कन्नडे, आङ्ग्लभाषायां वा भवितुम् अर्हन्ति ।

 द्वितीयापरीक्षायाः आवेदनापत्रम् अत्र द्रष्टुं शक्यम् 

Comments are closed.