श्रीः
WELCOME TO THE E-LEARNING PORTAL FOR TRUTEEYA
Start your studies auspiciously by learning the gurudhyaana and mangala shlokas
given below. Click on the play button to listen to the audio of the shlokas.

गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे ।
न गुरोः परमं शिशुरस्मि गुरोः मतिरस्ति गुरौ मम पाहि गुरो ॥ १ ॥
पुरे ग्रामे गृहे कुड्यां बालो वृद्धो युवापि वा ।
करोतु संस्कृताभ्यासं प्राप्नोतु ज्ञानसम्पदम् ॥ २ ॥
मङ्गलाशंसनम्
- मङ्गलाशंसनम्

यावदस्ति त्रयी लोके चतुर्मुख – मुखोद्भवा ।
यावद्वा रामचरितं वाल्मीकिकविचित्रितम् ॥ १ ॥
क्षरन्त्यमृतधारा वा यावद् व्यासस्य सूक्तयः ।
वाग्देव्या वरपुत्रस्य कालिदासस्य वा गिरः ॥ २ ॥
तावदेषा देवभाषा देवी स्थास्यति भूतले ।
यावच्च वंशोऽस्त्यार्याणां तावदेषा ध्रुवं ध्रुवा ॥ ३ ॥