तृतीया

इयं सरलसंस्कृतपरीक्षाणां तृतीयः स्तरः । अस्यां परीक्षायां द्वे पत्रिके भवतः ।
तृतीयापरीक्षायाः इ-अध्ययनार्थम् अत्र पश्यन्तु – सम्पूर्णः पाठ्यक्रमः ध्वनि-चित्र-चलच्चित्रैः, सोत्तरैः अभ्यासैः, इतरैश्च विशिष्टैः अध्ययनसाधनैः सह अत्र लभ्यते ।
पत्रिका १
पठ्यपुस्तकम् – संस्कृतभाषादीपिका III (संस्कृते एव)
मूल्यम् – २०.०० रू ।

पत्रिका २
पठ्यपुस्तकम् – अनुवादप्रदीपः I (आङ्ग्लावृत्तिः, कन्नडावृत्तिः च लभ्यते)
मूल्यम् – १५.०० रू

प्रथमपत्रिकायाः पठ्यपुस्तके प्रौढैः नामरूपैः धातुरूपैः च सहिताः पाठाः सन्ति । पद्यभागे सुभाषितानि सन्ति । कुमारसम्भवस्य रामोदन्तस्य च चिताः भागाः अपि सन्ति । व्याकरणभागे व्यञ्जनसन्धीनां विसर्गसन्धीनां च परिचयः अस्ति ।

द्वितीयपठ्यपुस्तकः अनुवादाभ्यासार्थं निर्मितः । अनेन छात्रेषु संस्कृतभाषायाः कन्नड/आङ्ग्लभाषायाम्, ततश्च संस्कृतभाषायाम् अनुवादस्य कौशलं वर्धते । अत्र दत्तेषु अभ्यासेषु विविधाः विभक्तयः, अव्ययानि, विशेषणानि, कृदन्ताव्ययानि, संख्याः इत्यादयः अंशाः पाठिताः । प्रबन्धलेखनस्य, पत्रलेखनस्य चापि अभ्यासाः अत्र सन्ति ।

परीक्षाशुल्कः – २५.००
पत्रिका १ परीक्षावधिः – ३.०० घण्टाः (प्रातः १०.०० तः १.००)
अङ्काः – १०० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)
पत्रिका २ परीक्षावधिः – १.३० घण्टाः (मध्याह्ने २.३० तः ४.००)
अङ्काः – ५० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)

तृतीयापरीक्षायां प्रायः ७५ अङ्कानाम् उत्तराणि संस्कृतभाषायामेव भवेयुः । अन्यानि उत्तराणि कन्नडभाषायाम् आङ्ग्लभाषायां वा भवितुम् अर्हन्ति ।

 तृतीयापरीक्षायाः आवेदनापत्रम् अत्र द्रष्टुं शक्यम् 

Comments are closed.