प्रवेशः

अयं सरलसंस्कृतपरीक्षाणां पञ्चमः स्तरः । अस्यां परीक्षायां द्वे पत्रिके भवतः ।

पत्रिका १
पठ्यपुस्तकम् – संस्कृतभाषादीपिका V (संस्कृते एव)
मूल्यम् – ३०.०० रू ।

पत्रिका २
पठ्यपुस्तकम् – अनुवादप्रदीपः III (संस्कृते एव)
मूल्यम् – २०.०० रू

प्रवेशपरीक्षा संस्कृतसाहित्याध्ययनस्य शास्त्रध्ययनस्य च प्रवेशं कल्पयति । अत्र प्रथमपत्रिकायाः पठ्यपुस्तके विविधेभ्यः प्रसिद्धेभ्यः संस्कृतकाव्येभ्यः चिताः भागाः सन्ति । गद्यकाव्येभ्यः, पद्यकाव्येभ्यः, नाटकेभ्यः च भागाः प्रदत्ताः ।

द्वितीयपठ्यपुस्तकः अनुवादाभ्यासार्थं निर्मितः । अनेन छात्रेषु संस्कृतभाषायाः कन्नड/आङ्ग्लभाषायाम्, ततश्च संस्कृतभाषायाम् अनुवादस्य कौशलं वर्धते । अत्र दत्तेषु अभ्यासेषु विविधानां विशेषधातूनां विविधलकारेषु प्रयोगाः अभ्यस्यन्ते । प्रबन्धलेखनस्य अपि अभ्यासाः अत्र सन्ति ।

परीक्षाशुल्कः – ३०.००
पत्रिका १ परीक्षावधिः – ३.०० घण्टाः (प्रातः १०.०० तः १.००)
अङ्काः – १०० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)
पत्रिका २ परीक्षावधिः – १.३० घण्टाः (मध्याह्ने २.३० तः ४.००)
अङ्काः – ५० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं १८ अङ्काः प्राप्तव्याः)

प्रवेशपरीक्षायां सर्वाणि उत्तराणि संस्कृते एव भवेयुः (अनुवादभागं विहाय) ।

प्रवेशपरीक्षायाः आवेदनापत्रम् अत्र द्रष्टुं शक्यम् 

Comments are closed.