प्रथमा

इयं सरलसंस्कृतपरीक्षाणां प्रथमः स्तरः

प्रथमापरीक्षायाः इ-अध्ययनार्थम् अत्र पश्यन्तु – सम्पूर्णः पाठ्यक्रमः ध्वनि-चित्र-चलच्चित्रैः, सोत्तरैः अभ्यासैः, इतरैश्च विशिष्टैः अध्ययनसाधनैः सह अत्र लभ्यते ।

पठ्यपुस्तकम् – संस्कृतभाषादीपिका I (आङ्ग्लावृत्तिः, कन्नडावृत्तिः च लभ्यते)
मूल्यम् – १५.०० रू ।

अस्मिन् पठ्यपुस्तके देवनागरीलिपेः, नामरूपाणां धातुरूपाणां च परिचयः अस्ति । एतानि रूपाणि उपयुज्य सरलाः पाठाः छात्रेषु अर्थावगमनसामर्थ्यम् उत्पादयितुं निर्मिताः सन्ति । व्याकरणभागे सरलाः स्वरसन्धयः सन्ति । पद्यभागे सुभाषितानि स्तोत्राणि च सन्ति ।

परीक्षाशुल्कः – २०.०० रू
परीक्षावधिः – २.३० घण्टाः (प्रातः १०.०० तः १२.३०)
अङ्काः – १०० (उत्तीर्णतां प्राप्तुं न्यूनातिन्यूनं ३५ अङ्काः प्राप्तव्याः)

प्रथमापरीक्षायां छात्राः प्रायः ६० अङ्कानाम् उत्तराणि संस्कृते एव लिखेयुः । अन्यानि उत्तराणि संस्कृते, कन्नडे, आङ्ग्लभाषायां वा लेखितुम् अर्हन्ति ।

प्रथमापरीक्षायाः आवेदनापत्रम् अत्र द्रष्टुं शक्यम् 

 

Comments are closed.