ध्येयोद्देशाः

सुरसरस्वतीसभायाः मुख्यम् उद्देश्यं गीर्वाणभाषाप्रसारः । एतदर्थं विविधानि कार्याणि सभया निर्वर्त्यन्ते –

१.       वर्षे द्विवारं पञ्चसु स्तरेषु सरलसंस्कृतपरीक्षाः चाल्यन्ते । आसु परीक्षासु वयो-लिङ्ग-विद्यार्हता-जाति-समुदायानां कमपि भेदं विना सर्वे जिज्ञासवः भागं वोढुम् अर्हन्ति

२.       सर्वासां परीक्षाणां पठ्यपुस्तकानि विदुषां मार्गदर्शने आधुनिकपरिपाट्या निर्मितानि सन्ति । एतानि पठ्यपुस्तकानि छात्रेषु संस्कृतभाषावगमनस्य, लेखनस्य च कौशलं संवर्ध्य साहित्याध्ययने शास्त्राध्ययने च तान् प्रेरयितुं निर्मितानि सन्ति ।

३.       परीक्षासु उत्तमान् अङ्कान् प्राप्य उन्नतश्रेण्याम् उत्तीर्णाः छात्राः रजतपदकैः सम्भाव्यन्ते

Comments are closed.